दादा श्री जिनदत्तसूरि काव्यम्

दासानुदासा इव सर्वदेवा यदीय पदाब्जतले लुठंति मरुस्थलीकल्पतरुः स जीयात् युगप्रधानो जिनदत्तसूरिः  ।।१।। चिंतामणिः कल्पतरूर्वराकौ कुर्वन्ति भव्याः किमु कामगव्या प्रसीदतः श्रीजिनदत्त सूरे सर्वे पदा हस्तिपदे प्रविष्टाः  ।।२।। नो योगी न च योगिनी न च नराधीशश्च नो शाकिनी नो वेताल-पिशाच राक्षसगणा नो रोगशोकौ भयं नो मारी न च विग्रहप्रभृतयः प्रीत्या प्रणत्युच्चकैः यस्ते श्री जिनदत्तसूरिः गुरवे नामाक्षरं ध्यायति  … Read more